________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
तृतीय
.
उद्देशकः ७१९ (A)
कथयति ॥१४८४ ॥ जाहे य इत्यादि, यदा च प्रहरमात्रं कालं यावत्कथितम्, अथ च तावन्तं कालं राजा गतमपि न जानाति ततो राजानं ब्रूते क्षुल्लकगणी- एवमनेन प्रकारेण वक्ष्यमाणमपि जानीहि ॥१४८५ ॥ तदेवाऽऽह
जह उठ्ठिएण वीत्यादि। यथा उत्थितेनापि त्वया न विज्ञातोऽयमेतावान् कालो गतः । कथारसप्रवृत्तेरिति, एवमनेनैव प्रकारेण गीत-वोदितविमोहिता देवाः प्रभूतमपि गतं कालं न जानन्ति ॥१४८६ ॥ एतच्च राज्ञा तथैवाभ्युपगतम्, जाता महती प्रतिपत्तिः। ईदृशः खलु कथनायाः प्रज्ञप्तेः कुशलः। स च तथाभूतः स्वसमयप्ररूपणायां नियमतः कुसमयान् मनात्येव ॥१४८७॥
उक्तः प्रज्ञप्तिकुशलः । सम्प्रति सङ्ग्रहकुशलो व्याख्येयस्ततः सङ्ग्रहप्ररूपणार्थमाहदव्वे भावे संगहो, दव्वे ऊ उक्ख-हारमादीओ। साहिल्लादी भावे, परूवणा तस्सिमा होइ ॥ १४८८ ॥
गाथा १४८३-१४९० प्रज्ञप्तिकुशल| संग्रहकुशलौ
७१९ (A)
१. वृत्तेनेति - वा. पु. मु. ॥२. दिन वि' वा. मो. पु. मु.॥
For Private and Personal Use Only