________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
N
व्यवहारसूत्रम्
तृतीय
उद्देशकः ७१९ (B)
सङग्रहो द्विधा-द्रव्ये भावे च। तत्र द्रव्ये उक्षादिक आहारादिकश्च। उक्षा-बलीवर्दाः । भावे भावविषयः साहाय्यादिकः। तस्य साहाय्यादिकस्य भावसङ्ग्रहस्य इयं वक्ष्यमाणा भवति प्ररूपणा ॥१४८६ ।।
तामेवाहसाहिल्लवयणवायण, अणुभासण देस-कालसंभरणं। अणुकंपणमणुसासण, पूयणमब्भंतरं करणं ॥ १४८९ ॥ संभुंजणसंभोगे, भत्तोवहि अन्नमन्नसंवासो। संगहकुसलगुणनिही, अणुकरण-करावणनिसग्गो ॥ १४९० ॥
साहिल्लं सहायकृत्यकरणम् वचनमाभाषितस्य इच्छाकारभणनम्, अथवा आभिग्रहिकस्य ग्रहीतमौनव्रतस्य वचनविषये केनाप्याभाषणं कृते तस्योत्तरभणनं वचनम्। वायणत्ति वाचनया क्लान्ते गुरौ साधूनां ददाति वाचनम्। अनुभाषणं नाम आचार्येण भाषिते सति पश्चाद्भाषणम्, न पुनः प्रधानीभूयाऽऽचार्यभाषणादग्रे एव भाषते। देश-कालसंस्मरणं नाम अस्मिन् देशे
गाथा १४८३-१४९० प्रज्ञप्तिकुशलसंग्रहकुशलौ
७१९ (B)
For Private and Personal Use Only