________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
तृतीय उद्देशकः ७१८ (A)
कषाय-योगप्रत्ययकस्य, मोक्षस्य सकलकर्मांशापगमरूपस्य ज्ञानदर्शनचारित्रहेतुकस्य, तथा येन येन कर्मणा कृतेन नरकतिर्यग्देवभवेषूत्पत्तिर्भवति तद्रूपाया गतेः, येन च कर्मणा कृतेन मनुष्यभवे समुत्पत्तिः, तद्रूपाया आगतेः, तथा सुखं यथा प्राणिनामुपजायते तथा सुखस्य, यथा दुःखं तथा दुःखस्य प्ररूपणायां कुशलः । तथा परवादिनो यत् कुदर्शनं तस्मिन् मथन: परवादिकुदर्शनमथनः, किमुक्तं भवति? परवादिनः प्रथमं भाषते, यथा- युष्माभिः कुदर्शनमग्राहि । ततस्ते असहमाना विप्रतिपद्यन्ते, तांश्च विप्रतिपद्यमानान् युक्तिभिस्तथा मनाति यथा स्वदर्शनपरित्यागं कुर्वन्तीति, एष इत्थम्भूतः प्रज्ञप्तिकुशलः ॥१४८२ ॥
साम्प्रतमत्रैव दृष्टान्तमाहपण्णत्तीकुसलो खलु, जह खुड्डुगणी मुरुंडरायस्स। पुट्ठो कहं गणि देवा, गयं पि कालं न याणंति? ॥ १४८३ ॥
गाथा |१४८३-१४९० प्रज्ञप्तिकुशलसंग्रहकुशलौ
७१८ (A)
१. तथा भूतस्य यथथ - वा. पु. मु. ॥ २. कहमिव देवा-खं। कह नवि देवा- वा. पु. भाष्यप्रतिषु च॥
For Private and Personal Use Only