________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
तृतीय उद्देशकः ७१७ (B)
लोगे वेए समए, तिवग्गसुत्तत्थगहियपेयालो। धम्मत्थ-काम-मीसगकहासु कहवित्थरसमत्थो ॥ १४८१ ॥ जीवाजीवा बंधं मोक्खं गतिरागति सुहं दुक्खं। पन्नत्तीकुसल विऊ, परवादीकुदंसणे महणो ॥ १४८२ ॥
लोके वेदे समये च आत्मीये प्रवचने यानि शास्त्राणि, तथा धर्माऽर्थकामास्त्रिवर्गस्तस्मिन्नपि च यानि शास्त्राणि तेषु सूत्रार्थयोर्गृहीतं पेयालं- परिमाणं येन स सूत्रार्थगृहीतपेयालः, सम्यग् विनिश्चितसूत्रार्थ इति तात्पर्यार्थः । तथा धर्मकथासु अर्थकथासु कामकथासु मिश्रकथासु च द्वि-त्रिसंयोगतो धर्मार्थकामकथासु कथयितव्यासु कहवित्थरत्ति विस्तरेण कथने समर्थः धर्मार्थकाममिश्रितास कथास विस्तरकथाकथनसमर्थः ॥१४८१॥ तथा जीवमजीवं बन्धं मोक्षं गतिमागतिं सुखं दुःखमधिकृत्य प्रज्ञप्तौ कुशलः। कुत? इत्याहयतो विदू विद्वान्। एतदुक्तं भवति-यतो लोक-वेद-समयशास्त्राणां सम्यग्वेत्ता ततो जीवानांनारकादिभेदभिन्नानाम्, अजीवानां धर्मास्तिकायादीनाम्, बन्धस्य मिथ्यात्वा-ऽविरति-प्रमाद
गाथा १४७७-१४८२ प्रवचनकुशल | प्रज्ञप्तिकुशलौ
७१७ (B)
For Private and Personal Use Only