________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
तृतीय उद्देशकः ७१६ (B)
सूत्राऽर्थात्मकत्वात् यदि वा सूत्रयुक्तोऽर्थोऽस्मिन्निति सूत्रार्थम्, नत्वक्षरानारूढार्थमिति भावः, हेतुः अन्वयव्यतिरेकात्मकः, कारणम्-उपपत्तिमात्रम्, हेतु-कारणे व्याक्रियेते-प्रतिपाद्यते अनेनेति हेतु-कारणव्याकरणम्, समृद्धम् -अनेकातिशयात्मकत्वात्, चित्रमाश्चर्यभूतम् अनन्तगम-पर्यायात्मकत्वात्। एवंरूपं श्रुतं धारयतीत्येवंशीलः सूत्राऽर्थहेतुकारणव्याकरणसमृद्धचित्रश्रुतधारी, तथा पौराणमिव पौराणम्, यादृशमतीताद्धायामासीत् तादृशमिदानीमप्यतिबहुलत्वेनेति भावः, दुर्द्धरं- नय-भङ्गाकुलतया प्राकृतजनैर्धारयितुमशक्यं धरतेऽर्थान् प्रवचनमिति पौराणदुर्द्धरधरः। तथा श्रुतरत्नस्य निधानमिव पूर्णः प्रतिपूर्णोऽर्थनिर्णयप्रदानादिना ॥ १४७७ ॥ तथा धारितं- सम्यग्धारणाविषयीकृतम्, न विप्रनष्टमिति भावः, गुणितं च- बहुशः परावर्तितम्, तथा सम्यग् ईहितं- पूर्वापरसम्बन्धेन पूर्वाऽपराव्याहतत्वेनेत्यर्थः, मीमांसितं समीहितम्। एतानि प्रवचनविशेषणानि, इत्थम्भूतेन प्रवचनेन तथा तस्यैव प्रवचनस्य निर्यापणा-मीमांसिततया निर्दोषत्वेन निश्चयनं तया, विपुला विशोधनार्थं बहूनामाचार्याणां सकाशे ग्रहणाद् वाचना विपुलवाचना, तया च समृद्धो धारित-गुणित-समीहित-निर्यापणाविपुलवाचनासमृद्धः। तथा प्रवचनपरिज्ञानानुगतानां गुणानां निधिरिव गुणनिधिः। किमुक्तं भवति ? प्रवचनमधीत्याऽऽत्मनो हितमाचरति, अन्येषां च हितमपदिशतीति। तथा प्रवचनस्य
गाथा १४७७-१४८२ प्रवचनकुशल| प्रज्ञप्तिकुशलौ
७१६ (B)
For Private and Personal Use Only