________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
܀܀܀܀
सूत्रम्
नैषणाशुद्धं गृह्णाति, संयोजनादिदोषरहितं च भुङ्क्ते । स्थानाद्यपि कुर्वाणः प्रत्युपेक्ष्य प्रमार्ण्य च करोति स संयमकुशलः । अत्र निषद्याग्रहणेन स्थानादि गृहीतम् । तथा य एतेषु सर्वेष्वपि संयमेषु कर्तव्येषु स्मृतिमान् स संयमकुशलः, 'स्मृतिमूलमनुष्ठानमवितथम्' [ ] इति तृतीय वचनात्। तथा यस्य प्रशस्तयोगस्य शुभमनोवाक्कायरूपस्य योजना व्यापारणम्, किमुक्तं भवति ? अप्रशस्तानां मनोवाक्काययोगानामपवर्जनम्, प्रशस्तानां मनोवाक्काययोगानामभियोजनम् स संयमकुशलः ॥१४७१ ॥
उद्देश :
७१५ (A)
www.kobatirth.org
******
Acharya Shri Kailassagarsuri Gyanmandir
तथा इन्द्रियाणि श्रोत्रादीनि कषायाँश्च क्रोधादीन् यो निगृह्णाति, यथा श्रोत्रादीनि न स्वविषये व्यापारयति, श्रोत्रादिविषयप्राप्तेषु शुभाशुभेषु शब्दादिष्वर्थेषु राग-द्वेषौ न विधत्ते, क्रोधादीनप्युदयितुं प्रवृत्तान् निरुणद्धि, उदयप्राप्तांश्च विफलीकरोति । तथा आश्रवाणि प्राणातिपातादिलक्षणानि पिदधाति । योगं च मनोवाक्कायलक्षणमप्रशस्तनिरोधेन प्रशस्तम् । ध्यानं चाऽऽर्त - रौद्रपरिहारेण प्रशस्तं धर्मं शुक्लं च आलीनः आश्रितः, अनिगूहितबलवीर्यतया तत्र प्रवृत्त इत्यर्थः । एष संयमकुशलः, कथम्भूतः सन् ? इत्याह-गुणनिधिः संयमानुगता गुणास्तेषां निधिरिव तैः परिपूर्ण इति भावः, गुणनिधिः । तथा त्रिविधेन प्रकारेण
For Private and Personal Use Only
܀܀
गाथा
१४६९ - १४७६ संयमकुशलस्वरूपम्
७१५ (A)