________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् तृतीय उद्देशकः
1
.
७११ (B)|
परीक्षते 'किं सुन्दरम् ? अथ मङ्गलम्' इति, एवं ये स्वसमय-परसमयान् परीक्षन्ते ते श्रुतनिघर्षा इति। तथा नायकाः स्वामिनो महाजनस्य स्वगच्छवर्तिनां साधूनामिति भावः । अथवा नायकाः ज्ञानादीनां प्रापकाः तदुपदेशनात्, महाजनस्य समस्तस्य सङ्घस्य। इत्थम्भूता आचार्या उपाध्यायाः प्रवर्तिनः स्थविरा, उपलक्षणमेतत्, गणावच्छेदिनश्चानुज्ञाताः ॥१४६१ ॥
तदेवं सामान्यतः सर्वेषां सूत्रपदानामर्थो व्याख्यातः। सम्प्रत्येकैकस्य सूत्रस्य पदार्थो वक्तव्यः। तत्र येषां पदानां वक्तव्यस्तान्युपक्षिपन्नाह
आयारकुसलरसंजम२, पवयण३पण्णत्ति४संगहो५वग्गहे६ । अक्खुय७ असबल८ अभिन्न९, असंकिलिट्ठायारसंपन्ने१० ॥ १४६२ ॥
अत्र कुशलशब्दः पूर्वार्द्ध प्रत्येकं सम्बध्यते। ततोऽयमर्थः- आचारकुशलशब्दस्य१ संयमकुशलशब्दस्य २ प्रवचनकुशलशब्दस्य३ प्रज्ञप्तिकुशलशब्दस्य४ सङ्ग्रहकुशलशब्दस्य५ उपग्रहकुशलशब्दस्य ६ च। अक्खुयेत्यादि, अत्राऽऽचारसम्पन्नशब्दः प्रत्येकमभिसम्बन्धनीयः- अक्षताचारसम्पन्नस्य अक्षताचारस्येत्यर्थः ७। एवमशबलाचारसम्पन्नस्य८ । अभिन्नाचारसम्पन्नस्य ९। असक्लिष्टाचारसम्पन्नस्य १० च व्याख्या कर्तव्या ॥१४६२ ।।
गाथा १४६०-१४६२ पदग्रहणयोग्यता
७११ (B)
For Private and Personal Use Only