________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
तृतीय
उद्देशकः ७१० (B)|
यस्यासौ बहुश्रुतः ११। तथा बहुः आगमः अर्थरूपो यस्य स बह्वागमः१३ । जघन्येन आचारप्रकल्पधरः, निशीथाध्ययनसूत्रार्थधर इति। जघन्यत आचारप्रकल्पग्रहणादुत्कर्षतो द्वादशाङ्गविदिति द्रष्टव्यम्, सः कल्पते यो भवत्युपाध्यायतयोद्देष्टुमिति प्रथमसूत्रार्थः ॥३॥ | ___सच्चेव णं से तिवासेत्यादि, से शब्द: अथशब्दार्थः। अथ स एव त्रिवर्षपर्यायः श्रमणो निर्ग्रन्थो नो आचारकुशल इत्यादि पूर्वव्याख्यानतः सुप्रतीतम् ॥४॥
एवं द्वे सूत्रे पञ्चवर्षपर्यायस्याऽऽचार्योपाध्यायत्वोद्देशविषये भावनीये। नवरम्- तत्र | जघन्येन दशाकल्प-व्यवहारधर इति वक्तव्यम् ॥ ५-६॥ ___ एवमेव चाष्टवर्षपर्यायस्याप्याचार्योपाध्यायगणावच्छेदित्वोद्देशविषये द्वे सूत्रे व्याख्येये। केवलं तत्र जघन्येन स्थानसमवायाङ्ग इति वाच्यम्, शेषं तथैव ॥७-८॥ एष सूत्रषट्कस्य |Nars-१४ सक्षेपार्थः। अधुना नियुक्तिविस्तरः। तत्र तावत्सर्वेषामेव सूत्रपदानां सामान्येन व्याख्यां
पदग्रहणचिकीर्षुरिदमाह भाष्यकृत्
योग्यता एक्कारसंगसुत्त-ऽत्थधारया नवमपुव्वकडजोगी।
७१० (B) बहुसुय बहुआगमिया, सुत्तऽत्थविसारया धीरा ॥ १४६० ॥
गाथा
For Private and Personal Use Only