________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
तृतीय
उद्देशकः
७१० (A)
तत्र द्रव्यत आहारोपध्यादीनाम्, भावतः सूत्रार्थयोः। यो द्विविधेऽपि सङ्ग्रहे कुशलः सङ्ग्रहकुशल: ५। उप- सामीप्येन ग्रहणमुपग्रहः, सोऽपि द्विधा-द्रव्यतो भावतश्च। तत्र येषामाचार्य उपाध्यायो वा न विद्यते तान् आत्मसमीपे समानीय तेषामित्वरां दिशं बद्ध्वा तावद्धारयति यावन्निष्पाद्यन्ते, एष द्रव्यत उपग्रहः, "ग्रही उपादाने" इति वचनात्। यः पुनरविशेषेण सर्वेषामुपकारे वर्तते स भावत उपग्रहः ६। अक्षताचार:- परिपूर्णाचारः परिपूर्णाचारता च चारित्रे सति भवति, "चारित्रवतो नियमतः शेषाश्चत्वारोऽप्याचाराः, शेषाचारवतश्चारित्रं स्याद् वा न वा" [चूर्णी] इति वचनात्, ततश्चारित्रवानित्युक्तं द्रष्टव्यम्। नन्वेषोऽप्यर्थः आचारकुशलः इत्यनेनोपात्त इति किमर्थमस्योपादानम् ? उच्यते- चारित्रं खलु प्रधानं मोक्षाङ्गम, तदपि कण्ठतो नोक्तमिति कदाशङ्काव्युदासार्थमित्यदोषः। तथा अशबलः यस्य सिताऽसितवर्णोपेतबलीवर्द इव कर्बुर आचारो विनय-शिक्षा-भाषागोचरादिकोऽसावशबलाचारः ८। तथा अभिन्नः-न केनचिदप्यतीचारविशेषेण खण्डित | आचार:- ज्ञानाचारादिको यस्य सोऽभिन्नाचारः ९। तथा असङ्क्लिष्टः इहपरलोकाशंसारूपसङ्क्लेशविप्रमुक्त आचारो यस्य सोऽसंक्लिष्टाचारः १०। तथा बहु श्रुतं- सूत्रं
गाथा १४६०-१४६२ पदग्रहणयोग्यता
७१० (A)
१. यस्या सावभिन्ना' वा. पु. मु.॥
For Private and Personal Use Only