________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् तृतीय उद्देशकः
७०९ (B)
द्रव्यतः सुवर्णादिरूपाद्, भावतो मिथ्यात्वादिलक्षणादिति निर्ग्रन्थः। आचारकुशलः ज्ञानादिपञ्चविधाचारकुशलः। तत्र कुशल इति द्विधा-द्रव्यतो भावतश्च। तत्र यः कुशं -दर्भ दात्रेण तथा लुनाति यथा न क्वचिदपि दात्रेण छिद्यते स द्रव्यकुशलः। यः पुनः पञ्चविधेनाऽऽचारेण दात्रकल्पेन कर्मकुशं लुनाति स भावकुशलः। तत्र एवमत्र समास:आचारेण- ज्ञानाद्याचारेण कुशल:- कर्मकुशच्छेदक आचारकुशलः,आचारविषये सम्यक्परिज्ञानवान् इति तात्पर्यार्थः, अन्यथा तेन कर्मकुशच्छेदकत्वानुपपत्तेः १ । एवं सर्वत्र भावना। संयम सप्तदशविधं यो जानात्याचरति च स संयमकुशल: २। प्रवचनं- द्वादशाङ्गं गणिपिटकं सप्रकीर्णकं तद् यो जानाति स प्रवचनकुशल: ३। समासभावना सर्वत्र तथैव। अथवा यः कुशं लुनन् न क्वचिद् दात्रेण छिद्यते स लोके तत्त्वतः कुशलः नान्यः, तेन कुशलशब्दस्य प्रवृत्तिनिमित्तं दक्षत्वम्, तच्च यत्रास्ति तत्र कुशलशब्दोऽपि प्रवर्तते इति दक्षवाची कुशलशब्दः, तत एवं समासः आचारे ज्ञातव्ये प्रयोक्तव्ये वा कुशलो दक्ष आचारकुशलः १। एवं संयमकुशलः २। प्रवचने ज्ञातव्ये कुशलः प्रवचनकुशल:३। प्रज्ञप्ति म स्वसमयपरसमयप्ररूपणा, तत्र कुशल: प्रज्ञप्तिकुशलः। सङ्ग्रहणं सङ्ग्रहः, स द्विधा-द्रव्यतो भावतश्च,
.
सूत्र ३-८
गाथा |१४५८-१४४९
आचार्योंपाध्याययोग्याऽयोग्यत्वम्
७०९ (B)
१. चारेण कर्मकुशलः कर्मच्छेदक- वा. मो. पु. मु. ॥ २. भावनीयम्- वा. मो. पु. मु. ॥
For Private and Personal Use Only