________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् तृतीय उद्देशकः ७०९ (AN
'तिवासपरियाए समणे निग्गंथे' इत्यादि सूत्रषट्कम्। अथास्य पूर्वसूत्रेण सह क: सम्बन्धः? तत आह
भावपलिच्छयस्स उ, परिमाणट्ठाए होइमं सुत्तं। सुयचरणे उ पमाणं सेसा उ हवंति जा लद्धी॥१४५९॥
द्रव्य-भावपरिच्छदोपेतः स्थविरैरनुज्ञातो गणं धारयति, तद्विपरीतो न धारयति' इति उक्तम्। तत्रेदं सूत्रषट्कम् भावपरिच्छेदस्य परिमाणार्थं परिमाणप्रतिपादनार्थं भवति वर्तते। [. तथा चानेन सूत्रषट्केन श्रुते चरणे च प्रमाणमभिधीयते। शेषाश्च या लब्धय आचार्या- सूत्र ३-८
गाथा णामुपाध्यायादीनां च योग्या: याभिः समन्विता आचार्यतया उपाध्यायादितया वा उद्दिश्यन्ते
१४५८-१४४९ ता अपि प्रतिपाद्यन्ते। तत्र श्रुतपरिमाणं "जहन्नेण आयारपकप्पधरे" इत्यादिना, चारित्रपरिमाणं
आचार्यो"तिवासपरियाए" इत्यादिना, शेषपदैर्यथायोग्यं लब्धयः ॥१४५९ ॥ अनेन सम्बन्धेना- पाध्याययोग्याऽऽयातस्यास्य व्याख्या
ऽयोग्यत्वम् त्रीणि वर्षाणि पर्याय: प्रव्रज्यापर्यायो यस्य स त्रिवर्षपर्यायः। श्राम्यति-तपस्यतीति ७०९ (A) श्रमणः। स च शाक्यादिरपि भवति ततस्तद्व्यवच्छेदार्थमाह- निर्ग्रन्थः निर्गतो ग्रन्थाद्
For Private and Personal Use Only