SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् तृतीय उद्देशकः ७०७ (B) समस्ति'? इत्यध्यवसायतः पूर्वाचार्येणाननुज्ञात आचार्यपदे तस्याऽस्थापनात् स्थविरान् गच्छमहत्तररूपान् अनापृच्छ्य दिग्बन्धं करोति स स्थविरैः प्रतिषेधनीयः, यथा- न वर्तते आर्य! तव तीर्थकराणामाज्ञां लोपयितुम्। एवं प्रतिचोदितोऽपि यदि न प्रतिनिवर्तते तर्हि स्थविराः शुद्धाः, स तु चतुर्गुरुके प्रायश्चित्ते लग्नः। अथ स्थविरा उपेक्षन्ते तर्हि ते उपेक्षाप्रत्ययं चतुर्गुरुके लग्नाः। यत एवमुपेक्षायामनापृच्छायां च तीर्थकराभिहितं प्रायश्चित्तमाज्ञादयश्च दोषास्तस्मात्स्थविरैरुपेक्षा न कर्तव्या, तेन च स्थविरा आप्रच्छनीयाः ।।१४५६॥ सगणे थेराणऽसती, तिगथेरे वा तिगं वुवट्ठाति। सव्वाऽसति इत्तरियं, धारेइ न मेलितो जाव ॥१४५७।। अथ स्वगच्छे स्थविरा न सन्ति तर्हि स्वगणे स्वकीयगच्छे स्थविराणामसति अभावे ये त्रिके कुलगणसङ्घरूपे स्थविरास्तान् त्रिकस्थविरान्, त्रिकं वा समस्तं कुलं वा गणं सञ् वा इत्यर्थः, उपतिष्ठते, यथा- यूयमनुजानीत मह्यं दिशमिति। अथ अशिवादिभिः कारणैर्न पश्येत् कुलस्थविरादी तत इत्थं सर्वेषां- कुलस्थविरादीनामसति- अभावे इत्वरिकां दिशं गणस्य धारयति यावत् कुलादिभिः सह गणो मेलितो भवति ॥ १४५७॥ सूत्र २ गाथा १४५३-१४५७ गणधारणे स्थविराः प्रष्टव्याः ७०७ (B) For Private and Personal Use Only
SR No.020935
Book TitleVyavahar Sutram Part 02
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages582
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy