________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री | व्यवहार
सूत्रम् तृतीय उद्देशक:
७०७ (A)
देशदर्शननिमित्तं गतेन ये प्रताजितास्तान यद्यात्मनो यावत्कथिकान् शिष्यतया बध्नाति ततस्तस्य प्रायश्चित्तं चतुर्गुरुकम्। प्रत्यागतोऽपि सन् यान् प्रव्राजयति तानपि यद्यात्मनः शिष्यतया बध्नाति तदापि चतुर्गुरुकम्। तथा देशदर्शनं कृत्वा तस्मिन्नागते अस्थापिते च तस्मिन्नाचार्यपदे स्थविरा: तस्याऽऽचार्या उपरता: कालगता, यदि वा स प्रत्यागतोऽप्यशिवादिभिः कारणैः, यद्वा साधकस्य तथाविधस्य असतित्ति अभावेनाऽऽचार्यपदेऽस्थापितः, अत्रान्तरे चाचार्यः कालगतः. ततस्तस्मिन् कालगते, यदि वा गतो विदेशं तत्रैव विदेशे गणं धारयितुमिच्छेत्, एतेषु सर्वेष्वपि कारणेषु समुत्पन्नेषु यदि स्थविरान् गच्छमहतोऽपृष्ट्वा यद्यपि तस्याचार्येण भावतो गणो निसृष्टोऽनुज्ञातस्तथापि स्थविरा आप्रच्छनीयाः। तत आह- भावनिसृष्टमपि गणं धारयति तर्हि तस्य स्थविरानापृच्छाप्रत्ययं प्रायश्चित्तं अनुद्घाताः गुरुकाश्चत्वारो मासाः। उपलक्षणमेतत्, आज्ञा-ऽनवस्था-मिथ्यात्व-विराधनारूपाश्च तस्य दोषाः ॥१४५४-५५॥
सयमेव दिसाबंधं, अणणुण्णाते करे अणापुच्छा। थेरेहि य पडिसिद्धो सुद्धा लग्गा उवेहंता ॥१४५६॥ यो नाम स्वयमेव आत्मच्छन्दसा 'को मम निजमाचार्य मुक्त्वाऽन्य आप्रच्छनीयः
सूत्र २
गाथा
|१४५३-१४५७ गणधारणे स्थविराः प्रष्टव्याः
७०७ (A)
For Private and Personal Use Only