________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय उद्देशक:
७०६ (B)
܀܀܀܀܀܀܀
www.kobatirth.org
भिक्षुरिच्छेद् गणं धारयितुम्, तत्र से तस्य न कल्पते स्थविरान् गच्छगतान् वृद्धपुरुषान् अनापृच्छ्य गणं धारयितुम् । कल्पते से तस्य स्थविरान् आपृच्छ्य गणं धारयितुम् । स्थविराश्च से तस्य वितरेयुः अनुजानीयुर्गणधारणं पूर्वोक्तैः कारणैरर्हत्वात् तत एवं स से तस्य कल्पते गणं धारयितुम् । स्थविराश्च से तस्य न वितरेयुर्गणधारणम् अनर्हत्वात्, एवं सति न कल्पते गणं धारयितुम् । यः पुनः स्थविरैः अवितीर्णमननुज्ञातगणं धारयेत् ततः से तस्य स्वकृतादन्तरादपन्यायात् प्रायश्चित्तं छेदो वा परिहारो वा । वाशब्दादन्यद्वा तपः। एष सूत्राक्षरार्थः । भावार्थं भाष्यकृदाह
काउं देसदरिसणं, आगतअट्ठायिम्मि उवरया थेरा,
असिवादिकारणेहि व, न ठावितो साहगस्सऽसती ॥ १४५४ ॥
सो कालगते तम्मि उ, गतो विदेसं व तत्थ व अपुच्छा; थेरे धारेइ गणं, भावनिसिद्धं पऽणुग्घाया ॥ १४५५ ॥
१. पि+अणु इत्यर्थः ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
सूत्र २
गाथा १४५३-१४५७ गणधारणे
स्थविरा:
प्रष्टव्याः
७०६ (B)