________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् तृतीय उद्देशकः
७०५ (B)|
पुरुषयुगानि लभते। आत्मा च आत्मीयश्च पुत्र-पौत्र-प्रपौत्रलक्षणः परिवारः सप्तम इति पुरुषयुगं सप्तधा भवति। भावना प्रागेवोक्ता ॥ १४५१ ॥
अत्रैव प्रकारान्तरमाहअहवा न लभति उवरिं, हेटुच्चिय लभइ तिण्णि तिण्णेव। तिण्णऽत्तलाभ परलाभ छप्पि दासक्खरन्नायं ॥ १४५२ ॥
अथवेति आभवनस्य प्रकारान्तर[ता]सूचने। यान्युपरितनानि त्रीणि पुरुषयुगानि प्रागुक्तानि, तानि नैव लभते, गरीयस्तया एकगुरुदीक्षितत्वेन समानतया च तेषां तदायत्तत्वायोगात्। हेट्ठच्चिय लभइ तिणित्ति यानि पूर्वं त्रीणि पुरुषयुगान्यधस्तनानि प्रदर्शितानि तेषां ग्रहणार्थं प्रथमं त्रीणीत्युक्तम्, तिन्नेवत्ति तेषां पूर्वभणितानामधस्तनानां त्रयाणां पुरुषयुगानामन्यान्यप्यधस्तनानि यानि त्रीणि पुरुषयुगानि तान्यपि लभन्ते। एतानि षडपि पुरुषयुगादीनि परलाभः, त्रयः पुत्र-पौत्र-प्रपौत्रलक्षणा आत्मलाभः, इदमेकं पुरुषयुगम्। सर्वमीलने सप्त पुरुषयुगानि | तस्याऽऽभाव्यानि तेषां चाऽऽभवने ज्ञातमुदाहरणं-दास-खरौ "दासेन मे खरो क्रीतो, दासो वि मे खरो वि मे" ॥ १४५२ ॥
गाथा १४४८-१४५२
आभवन स्वरूपम्
७०५ (B)
For Private and Personal Use Only