________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशकः
७०५ (A)
www.kobatirth.org
द्वितीयं पुरुषयुगम् २ प्रपितामहपरिवारं सर्वं लभते इति तृतीयं पुरुषयुगं ३ । एतानि त्रीण्युपरितनानि पुरुषयुगानि । साम्प्रतमधस्तनानि त्रीणि भाव्यन्ते- गुरुभ्रातृप्रव्राजितं समस्तं परिवारं लभते इत्येकं पुरुषयुगम् १, भ्रातृव्यप्रव्राजितमपि सर्वं लभते परिवारमिति द्वितीयं पुरुषयुगम् २, भ्रातृव्यप्रव्राजितैरपि प्रव्राजितान् समस्तान् लभते इति तृतीयं पुरुषयुगम् ३। तदेवमधस्तनानि त्रीणि पुरुषयुगानि त्रीण्युपरितनानीति मिलितानि षड् जातानि । तथा आत्मना ये प्रव्राजिताः पुत्रस्थानीया ये च तैः प्रव्राजिताः पौत्रस्थानीयाः ये च तैरपि प्रव्राजिता प्रपौत्रकल्पाः, एष सर्वोपि समुदाय एकं पुरुषयुगम् । इदं च षट्सु मेलितमिति पुरुषयुगं सप्तधा भवति । तथा चाह- पुरिसजुगं सत्तहा होइ ॥ १४५० ॥
एतदेव स्पष्टयति
मूलारिए वज्जित्तु, उवरि सगणो उ हेट्ठिमे तिन्नि । अप्पा य सत्तमो खलु, पुरिसजुगं सत्तहा होइ ॥ १४५१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
मूलाचार्यान् पितृ-पितामहलक्षणान् वर्जयित्वाऽन्य उपरितनः समस्तोऽपि स्वगणस्तस्याऽऽभवति । एतेन त्रीणि पुरुषयुगान्युपात्तानि । अधस्तनान्यपि च प्रागुक्तस्वरूपाणि त्रीणि
For Private and Personal Use Only
गाथा
| १४४८ - १४५२
आभवन स्वरूपम्
७०५ (A)