________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् तृतीय उद्देशकः
७०४ (B)
सीसपडिच्छो होउं, पुव्वगए कालिए य निम्मातो। तस्साऽऽगयस्स सगणं, किं आभव्वं? इमं सुणसु ॥ १४४९ ॥
गीतार्थोऽगीतार्थ आर्यिकाक्षल्लको वा अन्येषामाचार्याणां समीपे प्रतीच्छकरूपः शिष्यो भूत्वा पूर्वगते कालिके वा श्रुते निर्मातः, तस्य स्वगणमागतस्य किमाभाव्यम्? सूरिराहइदं च वक्ष्यमाणं शृणु ॥ १४४९ ॥
तदेवाहसीसो सीसो सीसो, चउत्थगं पि पुरिसंतरं लहइ। हेट्ठा वि लभति तिन्नी, पुरिसजुगं सत्तहा होइ ॥ १४५० ॥
गाथा
१४४८-१४५२ शिष्यः स्वदीक्षितः, तस्यापि शिष्यो यः पौत्रकल्पः, तस्यापि शिष्यः प्रपौत्रकल्पः, I.
आभवन एवंरूपं सन्तानत्रयात्मकं चतुर्थमपि पुरुषान्तरं पुरुषयुगं लभते। चतुर्थग्रहणादन्येऽपि त्रयः ||
स्वरूपम् सूचिताः। तानेवाह-हेट्ठा वि लहइ तिनी इत्यधस्तात् त्रीणि पुरुषयुगानि लभते, अपिशब्दादपर्यपि त्रीणि। इयमत्र भावना- आत्मीयमाचार्य वर्जयित्वा यस्तस्य परिवारस्तं
७०४ (B) सर्वं लभते इदमेकं पुरुषयुगम् १ पितामहं वर्जयित्वा पितामहपरिवारं सर्वं लभते इति
For Private and Personal Use Only