________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् तृतीय उद्देशकः
७०४ (A)
एष एक:१। अन्योऽवसन्नगीतार्थानां गच्छस्तेषां मध्यादेकः कश्चिदन्यं संविग्नं गच्छमाश्रितवान् एष द्वितीय:२। तथा अन्याः काश्चन संयत्यस्तासामाचार्यो नास्ति, कालकरालपिशाचेन कवलितत्वात्, केवलं ताभिरेकः क्षुल्लक: प्रवाजित आसीत्। सोऽन्यं संविग्नं गच्छमुपसम्पन्नः३। ॥१४४७॥ ___एते त्रयोऽपि पूर्वगते कालिकगते वा श्रुते सूत्रार्थतदुभयैः परिपूर्णा जातास्तेषामात्मीयं गच्छमागतानां यावदाभवति तावद्वक्तव्यमिति। एतदेवाह
गीयत्थमगीयत्थे, अजाणं खुड्डए य अन्नेसिं। आयरियाण सगासे, अमुइंतेणं तु निम्माया ॥ १४४८ ॥
गीतार्थो योऽवसन्नगीतार्थगच्छाद्विनिर्गत:१, अगीतार्थो योऽपरिग्रहगीतार्थगच्छान्निर्गत:२, ||१४४८-१४५२ आर्यिकाभिः प्रव्राजितः आर्यिकाणां क्षुल्लकः ३, एते त्रयोऽप्यन्येषामाचार्याणां सकाशे अमोचित्वेन कदाचनापि आचार्यसमीपममुञ्चन्तः निर्माताः, सूत्राऽर्थतदुभयज्ञा जाताः ॥१४४८ ॥
स्वरूपम् एतदेव स्पष्टतरमाह
७०४ (A)
गाथा
आभवन
For Private and Personal Use Only