________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् तृतीय उद्देशकः ७०३ (B)
पंथम्मि य कालगया, पडिभग्गा वा वि तुब्भ जे सीसा। एए सव्वे अणरिहा, तप्पडिवक्खा भवे अरिहा ॥ १४४६ ॥
यो देशदर्शनं कृत्वा समागतः सन् ब्रूते- युष्माभिर्दत्ताः साधवः परिवारतया ते सर्वे | युष्माकं शिष्याः पथि कालगताः प्रतिभग्ना वा, इमे पुनः सर्वे मम शिष्याः। एते स्थविरादयोऽनर्हाः, तत्प्रतिपक्षा भवन्त्याः । तेषां पुनरनर्हाणामाचार्यसमीपमागतानां ये तैः प्रवाजिताः शिष्यास्तानाचार्य इच्छापयति वा न वा गुरूणामत्रेच्छा प्रमाणम् ॥ १४४६ ॥
एसा गीते मेरा, इमा उ अपरिग्गहाणऽगीयाणं। गीयत्थपमादीण व, अपरिग्गहसंजतीणं च॥ १४४७ ॥
एषा अनन्तरोदिता मर्यादा यो गच्छस्य आचार्यस्तस्मिन् गीते गीतार्थे द्रष्टव्या। इयं पुनरपरिग्रहाणामगीतानां तथा गीतार्थप्रमादिनामपरिग्रहसंयतीनां च। इयमत्र भावनायेषामाचार्योऽप्यगीतार्थस्ते अपरिग्रहाः यद्यपि नाम तेषामाचार्य परिग्राहकस्तथापि सोऽगीतार्थ इति तत्त्वतः सूत्रनीत्या ते अपरिग्रहा एव। तेषां मध्यात्कोऽप्येकोऽन्यं संविग्नं गच्छमपसम्पन्न: | १ यो गीतार्थ आचार्यः - मो.। योग्यस्य गीतार्थ आचार्य:- वा. पु. मु. ॥
गाथा १४४१-१४४७ गणधारणाज्योग्या:
७०३ (B)
For Private and Personal Use Only