________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय उद्देशकः
७०३ (A)
܀܀܀܀
www.kobatirth.org
लभन्ते, अथ वस्त्रादीनि लभन्ते तर्हि न भक्तमिति, ते एकमेव लभन्ते इत्येवंशीला एकलाभिनः । तथा चाऽऽह अथवा ये एकं द्रव्यं लभन्ते तान् शिष्यान् गुरूणां यः प्रयच्छति, उभयलब्धिकानात्मनः सम्बन्धयति सोऽप्यनर्हः ॥१४४३-४४ ॥
उक्खेवेणं दो तिन्नि, वावि उवणेति सेसमप्पणी गेहे । आयरियाणित्तरियं बंधइ दिसमप्पणो वकति ॥ ९४४५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
इयं किल सामाचारी - यावन्तः किल देशदर्शनं कुर्वता प्रव्राज्यन्ते तावन्तः सर्वे गुरूणां समर्पणीयाः । यस्तु प्रव्राजितान् द्विधा कृत्वा उत्क्षेपेण हस्तोत्पाटनेन द्वौ त्रीन् वा शिष्यान् गुरूणामुपनयति, शेषान् सर्वानप्यात्मना गृह्णाति, एषोत्क्षेपकोऽनर्हः । तथा ये केचन देशदर्शनं कुर्वता प्रव्राज्यन्ते ते सर्वेऽप्यप्यात्मन इत्वरिका बन्धनीयाः, यथा - आचार्यसमीपं गता यूयं सर्वेऽप्याचार्यस्य। यः पुनराचार्याणां दिशमित्वरिकां बध्नाति, आत्मनस्तु यावत्कथिकाम्, यथा— यावत् यूयमाचार्यसमीपे तिष्ठथ तावदाचार्यसत्काः, शेषकालं ममेति, एवमित्वरिकान् करोति शिष्यान् सोऽप्यनर्हः ॥ १४४५ ॥
For Private and Personal Use Only
܀܀܀
गाथा १४४१-१४४७ गणधारणायोग्याः
७०३ (A)