________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
तृतीय उद्देशकः ७०२ (B)
कालगतान्, चशब्दात् प्रतिभग्नान् कथयति ७। एते सर्वेऽप्यनर्हाः ॥ १४४२ ॥
तत्र स्थविरादीन् व्याख्यानयतिथेरा उ अतिमहल्ला, अणरिहा काण-कुंटमादीया। खग्गूडा य अवस्सा, एगालंभी पहाणो उ ॥ १४४३ ॥ तं एगं न वि देंती, अवसेसे देइ जे गुरुणं तु। अहवा वि एगदव्वं, लभंति जे देइ ते गुरूणं ॥ १४४४ ॥ स्थविरा नाम अतिमहान्तः, वयसाऽतिगरिष्ठा इत्यर्थः१ । अनर्हाः काण-कुण्टादयः२, खग्गूडा अवश्याः । अयमत्र भावार्थः - योऽसौ पूर्व परीक्षितः स देशदर्शनं कार्यते. तेन च देशदर्शनं कुर्वता यदि ये स्थविराः प्रव्राजिताः, ये च जुङ्गिकाः, ये च खग्गूडा वा तान् । आचार्यस्य समर्पयति, तरुणान् अव्यङ्ग्यान् विनीतांश्चाऽऽत्मनस्तदा सोऽनर्ह इति ३ । एकलाभी नाम यः प्रधान: शिष्यस्तमेकं यो न ददाति, अवशेषांस्तु सर्वानपि प्रव्राजितान् गुरूणां : प्रयच्छति, अथवा येषामेक एव लाभः, यथा- यदि भक्तं लभन्ते ततो वस्त्रादीनि न
गाथा १४४१-१४४७ गणधारणाऽयोग्या:
७०२ (B)
For Private and Personal Use Only