________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देश :
७०१ (B)
www.kobatirth.org
एगं मग्गति सिस्सं, पण दा. ५। छट्ठे मरेंति विद्धसंते वा । दा. ६ । सत्तमयस्स वि एवं, नवरं पुण ठायए एगो ॥। १४४० ॥ दारं ७ ।
Acharya Shri Kailassagarsuri Gyanmandir
पति पञ्चमः, एकपुरुष एकं शिष्यं मृगयते । स ह्येवं चिन्तयति - किमप्येकमात्मनः सहायं मृगयामि येन सुखं तिष्ठामीति५ । तथा षष्ठे निन्दुतुल्ये शिष्या म्रियन्ते विध्वंसन्ते वा, प्रतिभज्यन्ते चेति भावार्थः । इयमत्र भावना- यथा निन्दुमहेला यद्यदपत्यं प्रसूते तत् तन्प्रियते, एवं योऽपि यं यं प्रव्राजयति स स म्रियते, अपगच्छति वा, ततः स निन्दुरिव निन्दू ६ । सप्तमस्यापि काकीतुल्यस्य एवमेव द्रष्टव्यम्। नवरं पुनरेकः तिष्ठति । किमुक्तं भवति ? - तस्यापि यो यः शिष्यः सम्पद्यते स म्रियते विध्वंसते वा, केवलमेकस्तिष्ठति । उपलक्षणमेतत्, तेनैतदपि द्रष्टव्यम् - यस्यैकस्मिन् प्रव्राजिते सति द्वितीयविषये लब्धिरेव नास्ति स काकीव काकी, काक्यपि हि किलैकं वारं प्रसूते इति प्रसिद्धिः, वन्ध्यातुल्यः सुप्रतीत इति न व्याख्यातः । तस्येदं व्याख्यानम् - वन्ध्या किलाप्रसवधर्मा, एवं यस्य नैकोऽपि शिष्य उपतिष्ठते स वन्ध्येव वन्ध्येति ८ ॥१४४० ॥
पुनरन्याननर्हान् प्रतिपिपादयिषुरिदमाह
For Private and Personal Use Only
गाथा
१४३५ - १४४० गणधारणे
अयोग्याः
७०१ (B)