________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् तृतीय उद्देशकः ६९९ (B)
ज्ञात्वा न कुर्वन्त्याचार्यगुणोपेतान् अप्याचार्यान्, प्रवचनहीलनाप्रसक्तेः ॥ १४३३॥ ।
पच्छा वि होति विगला, आयरियत्तं न कप्पई तेसिं। सीसो ठावेयव्वो, काणगमहिसो व निन्नम्मि ॥ १४३४ ॥
पश्चादपि श्रामण्यस्थिता येऽक्षिगलनादिना विकला भवन्ति तेषामप्याचार्यगुणैर्युक्तानामप्याचार्यत्वं न कल्पते। येऽप्याचार्यपदोपविष्टाः सन्तः पश्चाद्विकला जायन्ते तेषामपि न कल्पते धारयितुमाचार्यत्वम्, किन्तु तैस्तथाविकलैः सद्भिरात्मनः पदे शिष्यः स्थापयितव्यः । आत्मा त्वप्रकाशे स्थापयितव्यः, क इव ? इत्यत आह-काणकमहिष इव निळे। इयमत्र भावना- काणको नाम चोरित उच्यते। यथा चोरितमहिषः ‘मा कोऽप्येनमद्राक्षीद् 'इति हेतोामस्य नगरस्य वा बहिर्ग-रूपे निम्ने प्रदेशे, उपलक्षणमेतद्, अतिगुपिले वा वनगहने स्थाप्यते। एवमेषोऽपि, अन्यथा प्रवचनहीलना प्रसक्तेः, आज्ञादिदोषप्रसङ्गश्च ॥१४३४॥
अथ योऽसावात्मीय: शिष्यः पश्चाद्विकलैराचार्यः स्थाप्यते, स कीदृशः? इत्यत आह
गाथा १४३०-१४३४
जुङ्गिका आचार्यत्वे अयोग्याः
६९९ (B)
For Private and Personal Use Only