________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
तृतीय उद्देशकः ६९९ (A)
हत्थे पाए कण्णे, नासा ओटेहिं वज्जियं जाण। वामणग मडभ कोढिय, काणा तह पंगुला चेव ॥ १४३२ ॥
शरीरे जुङ्गिकां जानीहि हस्ते सप्तमी प्राकृतत्वात् तृतीयार्थे, एवं सर्वत्र । ततोऽयमर्थ:हस्तेन उपलक्षणमेतत्, हस्ताभ्यां वा वर्जितम्, एवं पादेन पादाभ्यां वा, कर्णेन कर्णाभ्यां वा, नाशया ओष्ठेन, वामनकाः हीनहस्त-पादाद्यवयवा, मडभाः कुब्जाः, कौष्ठिकाः कुष्ठव्याध्युपहताः, काणा: एकाक्षाः। पङ्गुलाः पादगमनशक्तिविकलाः। एतानपि शरीरजुङ्गिकान् जानीहि ॥१४३२॥ दिक्खेउ पि न कप्पंति, जुंगिया कारणे विदोसा वा। अण्णायदिक्खिए वा, नाउं न करेंति आयरिए ॥ १४३३ ॥
एते अनन्तरोदिताश्चत्वारोऽपि जुङ्गिका दीक्षितुमपि न कल्पन्ते, किं पुनराचार्यपदे स्थापयितुम् ? इत्यपिशब्दार्थः । कारणे तथाविधे समुत्पन्ने विदोषा वा निर्दोषा वा दीक्षितुमिति | सम्बध्यन्ते। अज्ञाताश्चेत्कथमपि जुङ्गिका दीक्षिता भवेयुस्ततस्तानज्ञातदीक्षितान् जुङ्गिकान्
गाथा १४३०-१४३४
जुङ्गिका आचार्यत्वे
अयोग्याः
६९९ (A)
For Private and Personal Use Only