________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
तृतीय
उद्देशकः
६९६ (A)
एवं परिक्खियम्मी, पत्ते दिज्जति अपत्ते पडिसेहो। दुपरिक्खियपत्ते पुण, वारिय हावेंतिमा मेरा ॥ १४२५ ॥
एवमनन्तरोदितेषु गुणेषु दोषेषु च यदि परीक्षया निर्वटितो भवति, गुणैरुपेतो दोषैश्च | विप्रमक्त इत्यर्थः, तदा स पात्रमिति कत्वा तस्मिन्परीक्षिते पात्रे गणो दीयते। यस्त प्रागुक्तैर्दोषैरुपेतो गुणैश्च विप्रमुक्तः सोऽपात्रमतस्तस्मिन्नपात्रे गणदानस्य प्रतिषेधः, तस्मै गणो न दातव्य इति भावः। दुपरिक्खिय इत्यादि, अथ कदाचित्स दुष्परीक्षितः कृतो भवेत् गणश्च तस्मै दत्तः, स च गणः सीदति, तं दृष्ट्वा अन्येऽपि गच्छवर्तिनः केचित् सामाचारीशिथिला भवितुं प्रवृत्ताः, ततः तस्मिन् दुष्परीक्षितेऽपात्रे गणे प्रदत्ते सति गणे च सीदति ये तत्र गच्छे अन्ये तीव्रधर्मश्रद्धाका न सीदन्ति तैरुपायेन प्रतिबोध्य वारयितव्यः । तत्र यदि वारणानन्तर-मावृत्त्योद्यच्छति ततः समीचीनम्। अथ वारितोऽपि किञ्चित्कालमुद्यम्य पुनः सामाचारी हापयति तत इयं मर्यादा कर्तव्या, अयं विधिः प्रयोक्तव्य इत्यर्थः ॥१४२६॥
गाथा १४२५-१४२९ गणधारणे अयोग्याः
६९६ (A)
१. प्रतिचोद्य - पु. प्रे.। प्रतिनोद्य मो. ॥
For Private and Personal Use Only