________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय उद्देशकः
६९५ (B)
܀܀
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निश्रित एभिः वक्ष्यमाणैर्दोषैः अयोग्यः । तानेवाऽऽह - आहारादि आहारोपधि-पूजानिमित्तं गणं धारयन् तिन्तिण्यादिभिश्च दोषैरयोग्यः । तिन्तिणी नाम यत्र तत्र वा स्तोकेऽपि कारणे करकरायणम् । आदिशब्दाच्चलचित्तादिपरिग्रहः ॥ १४२३ ॥
एतदेव व्याख्यानयति
बहुसुत्ते गीयत्थे, धरेइ आहार - पूयणट्ठाई ।
तिंतिणि-चल- अणवट्ठिय- दुब्बलचरणा अजोग्गा उ ॥ १४२४ ॥
बहुकालोचितं सूत्रं- आचारादिकं यस्य स बहुसूत्र: गीतार्थः विदितसूत्रार्थः, एतेन 'युक्तपरीक्षायुक्तोऽपि' इत्येतद् व्याख्यातम् । एवम्भूतोऽपि यो गणं धारयति आहार - पूयणट्ठाई इति 'उत्कृष्टो मे आहारो भविष्यति, पूजनं वा स्वपक्षतः परपक्षतश्च' इत्येवमर्थम् आदिशब्दाद् 'उपधिरन्यद्वोपकरणमुत्कृष्टं मे भविष्यति' इत्येवमर्थपरिग्रहः, सोऽयोग्यः । तथा यस्तितिण:स्वल्पेऽपि प्रयोजने करकरायमाणः चलः चलचित्तः । अनवस्थितः स्वप्रतिपन्नार्थाऽनिर्वाही, दुर्बलचरण: - चारित्रविषये दुर्बलः एतेऽप्ययोग्याः ॥ १४२४ ॥
For Private and Personal Use Only
गाथा
| १४१८ - १४२४ आचार्यस्य लक्षणानि
६९५ (B)