________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् तृतीय उद्देशकः ६९२ (A)
यो नाम युगलं क्षुल्लक-वृद्धलक्षणं वस्त्राऽऽहारादिभिः सङ्ग्रह्णाति आत्मवशीकरोति अनुवर्तयति च। तरुणमपरितान्तः परिश्रममगणयन् ग्राहयति ग्राहणं ग्राह्यते शिष्य एतदिति बाहुलकात्कर्मण्यनट, ग्राहणमाचारादिश्रुतं आसेवनाऽऽशिक्षया च शिक्षयति ॥१४०९ ॥ तथा
खग्गूडं खर-मृदुभिर्वाक्यैस्तथाऽनुवर्तयति येन सः पाशेन पतति 'अन्यथा गतिं न लभते' इति मन्यमानस्तद्वशीभवति। तथा यः स्थामोऽपि बलवानपि सन् खग्गूडतया विहारविजढो भवति, विहारं न करोतीति भावः । तत्र उड्डणमङ्गीकारमात्मना करोति, यथा-एनमहं खरेण मृदुना वोपायेन विहारक्रमं कारयिष्यामीति। एष एवम्भूतो योग्यः ॥ १४१० ।। इय सुद्ध सुत्तमंडलि दाविज्जइ अस्थमंडली चेव।
||१४१०-१४१७ दोहिं पि असीयंते, देइ गणं दारं५ चोयए पुच्छा ॥ १४११ ॥
आचार्यस्य इति एवमुपदर्शितेन प्रकारेण चतुर्वपि जनेषु सूत्रोपदेशतः परीक्षितः सन् शुद्धो भवति |*
लक्षणानि न मनागपि दोषः, ततस्तस्य सूत्रमण्डली दाप्यते अर्थमण्डली च। एतयोश्च द्वयोरपि ६९२ (A) मण्डल्योर्यदि न विषीदति किन्त्वपरिश्रान्ततया गच्छवर्तिनां प्रातीच्छिकानां च
गाथा
For Private and Personal Use Only