________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् तृतीय उद्देशकः ६९१ (B)
ततः खग्गूडं दत्त्वा स भण्यते-अमुं तथा ग्राहय यथा ऋजुः सामाचारीकुशलश्च भवति । ततश्चिन्तयति
कोही व निरुवगारी, फरुसो सव्वस्स वामवट्टो य। अविणीतो त्ति व काउं, हंतुं सत्तुं व निच्छुभती ॥ १४०८ ॥
क्रोधी यदि वा निरुपकारी अथवा परुषः परुषभाषी तथा सर्वस्य साधुवर्गस्य |* वामावर्तः प्रतिकूलतया वर्तते, यदि वा अविनीत इति कृत्वा शिक्षां न ग्राहयति। अथव आक्रुश्य शत्रुमिव वा हत्वा निष्काशयति तर्हि सोऽनर्हः, तद्विपरीतोऽर्हः ॥१४०८ ॥
सम्प्रति चतुर्ध्वपि जनेषु तद्विपरीततया यथाऽर्हो भवति तथा भावयतिवत्थाऽऽहारादीहि य, संगिण्हऽणुवत्तए य जो जुयलं। गाहेइ अपरितंतो, गाहण सिक्खावए तरुणं ॥ १४०९ ॥ खर-मउएहऽणुयत्तति खग्गूडं जेण पडति पासेणं। थामोविहारविजढो, तत्थोड्डण म प्पणा कुणति ॥ १४१० ॥
गाथा १४०४-१४०९ गणधारणयोग्यास्य परीक्षा
६९१ (B)
For Private and Personal Use Only