________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् तृतीय उद्देशकः ६९१ (A)
कश्चित्प्रत्युपकारः। अथवा वृद्धो वृद्धत्वादेव जडक्रियो जडप्रज्ञश्च, ततोऽस्य शिक्षणे मम सूत्राऽर्थपरिहाणिः, तदेवं स्थविरशिक्षां ग्राह्यमाणे बहुकं निरर्थकमिति क एनं शिक्षयिष्यति?। एवं चिन्तयित्वा यो न शिक्षा ग्राहयति सोऽनर्हः, तद्विपरीतोऽर्ह इति ॥ १४०६ ॥
तदनन्तरं योऽसौ तरुणो मेधावी तं समर्प्य भण्यते, यथा- एष मण्डलिपरिपाट्या आलापके दीयमाने सीदति। ततस्त्वमेनमव्याक्षेपेण पाठय ततः स इदं चिन्तयति
अहियं पुच्छति ओगिण्हए बहुं कि गुणो मि रेगेण?। होहिति य विवढंतो, एसो हु ममं पडिसवत्ती ॥ १४०७ ॥ दारं ३।
एष मेधावित्वादधिकं पृच्छति अवगृह्णाति चाऽवधारयति च बहु प्रभूतम्, तत इत्थमस्यैव सूत्रस्य अर्थस्य चातिरेकेण प्रदानतः अक्षणिकतया को गुणो मम? नैव कश्चिदित्यर्थः, केवलं दोषो निजसूत्राऽर्थपरिगलनात्, अन्यच्च एषः हुः निश्चितं विवर्धमानः सूत्रतोऽर्थतश्च वृद्धि गच्छन् मम प्रतिसपत्नी प्रतिकूला सपत्नीव च प्रतिपन्थी भविष्यति, ततो न कोऽप्येनं पाठयिष्यतीति यो न शिक्षयति सोऽनर्हः, तद्विपरीतोऽर्हः ॥ १४०७॥
गाथा १४०४-१४०९ गणधारणयोग्यास्य परीक्षा
६९१ (A)
For Private and Personal Use Only