________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् तृतीय उद्देशकः
६८६ (A)
इति उपकरणोत्पादनलब्धियुक्तमुपकरणोत्पादने, सुते इति सूत्रपाठलब्ध्युपेतं सूत्रपाठे, अर्थग्रहणसलब्धिकमर्थग्रहणे वादलब्धिसमन्वितं परवादिमथने, धर्मकथनलब्धिपरिकलितं धर्मकथने, ग्लानप्रतिचरणपटीयांसं ग्लानप्रतिजागरणे ॥ १३९३ ॥
जह जह वावारयते, जहा य वावारिया न हीयंति। तह तह गणपरिवुड्डी, निजरवड्डी वि एमेव ॥ १३९४ ॥
यथा यथा तत्तल्लब्ध्युपेतान् तत्तत्कर्मणि व्यापारयति, यथा यथा च व्यापारिता न हीयन्ते देश-काल-स्वभावौचित्येन व्यापारणात् तथा तथा गणस्य गच्छस्य परिवृद्धिर्भवति। निर्जरावृद्धिरप्येवमेव, निर्जराऽपि तथा तथा परिवर्द्धत इति भावः। एतद् व्यतिरिक्तो व्यापाराऽयुक्तः, तस्य गच्छपरिहानिः न च निर्जरति ॥ १३९४॥
सम्प्रति भावपरिच्छदमाहदंसण-नाण-चरित्ते, तवे य विणए य होइ भावम्मि। संजोगे चउभंगो, बिइए नायं वइरभूती ॥ १३९५ ॥
गाथा १३९४-१३९८ वज्रभूतिसूरिः दृष्टान्तम्:
६८६ (A)
For Private and Personal Use Only