________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
४
व्यवहार
सूत्रम्
तृतीय उद्देशकः ६८५ (B)
कयमकयं व न जाणइ, न य उज्जमए सयं न वावारे। भतिभत्तकालहीणे, दुग्गहि किसीए परिहाणी ॥ १३९२ ॥ द्वितीयो व्यापारयुक्तो भृतकैः किं कर्म कृतम् ? किं वा न कृतम् ? इति नैव जानाति | स्वयमपरिभावनादन्यतश्चाप्रच्छनात्। न च स्वयं कर्मकरणायोद्यच्छति, न वा मध्ये स्थित्वा भृतकान् व्यापारयति। भृति-भक्ते च भृतकानां कालहीने ददाति। किमुक्तं भवति ? भृतिमपरिपूर्णां ददाति कालहीनां च, एवं भक्तमपि। तत एवं दुर्गृहीतायाः कृषेस्तस्य परिहानिरभूदसाधुवादश्च ॥१३९२ ॥
सम्प्रति लोकोत्तरिकं द्रव्यपरिच्छदे व्यापारयुक्तमाह
जो जाए लद्धीए, उववेओ तत्थ तं निजोएंति। ___ उवकरणसुए अत्थे, वादे कहणे गिलाणे य ॥ १३९३॥
यो यया लब्ध्या उपपेतः युक्तो वर्तते, तत्र तं नियोजयन्ति सूरयः। तद्यथा- उपकरणे
गाथा १३८७-१३९३ गणधारणचतुभङ्गायां विशेष:
६८५ (B)
For Private and Personal Use Only