________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् तृतीय उद्देशकः
६८३ (A)
सुत्तेण अत्थेण य उत्तमो उ, आगाढपण्णेसु य भावियप्पा। जच्चन्निओ यावि विसुद्धभावो, संते गुणेवं पविकत्थयंते॥ १३८५ ॥
सूत्रेणार्थेन च एष उत्तमः प्रधानः, परिपूर्णस्य सूत्रस्यार्थस्य चावदातस्यास्य सम्भवात् । तथा आगाढा प्रज्ञा येषु शास्त्रेषु व्याप्रियते, न या काचन, तान्यागाढप्रज्ञानि शास्त्राणि तेषु भावितात्मा, तात्पर्यग्राहितया तत्रातीवनिष्पन्नमतिरिति भावः। तथा जात्या- सकलजनप्रशस्ययाऽन्वितः- युक्तो जात्यान्वितः। तथा विशुद्धः स्व-परसंसारनिस्तारणैकतानतया अवदातो भाव:-अभिप्रायो यस्य स विशुद्धभावः, एवं सतो गुणान् गणधारिणः शिष्या अपरे च प्रकर्षतो हर्षातिरेकलक्षणतो विकत्थयन्ते श्लाघन्ते। ॥ १३८५ ॥
गाथा एवं च पूज्यमाने आचार्ये पूजकानां यो गुणस्तमुपदर्शयति
१३८२-१३८६
गणधारकस्य आगम एवं बहुमाणितो उ, आणा थिरत्तं च अभावितेसु।
पूजनादिः विणिज्जरावेणइया य निच्चं, माणस्स भंगो वि य पुजयंते ॥ १३८६ ॥ *
६८३ (A) १. आगाढप्रज्ञः श्रुतभावितात्मा च इति विशेषणद्वयमपि संभाव्यतेऽतिः।
For Private and Personal Use Only