________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
श्री व्यवहार
सूत्रम् तृतीय | उद्देशकः ६८३ (B)
पूज्यमाने आचार्ये पूजकैरागमः बहुमानितः बहुमानविषयीकृतो भवति। आगमस्य तत्रस्थत्वात्। तथा भगवतामर्हतामाज्ञा परिपालिता भवति। भगवतां हि तीर्थकृतामियमाज्ञायदुत गुरोः सदा पूजा कर्तव्या। तथा चोक्तम्
जहाऽऽहियग्गी जलणं नमसे, नाणाहुती-मंतपयाभिसित्तं । एवाऽऽयरियं उवचिट्ठएज्जा अणंतणाणोवगतो वि संतो ॥ [द.वै.अ.९ उ.१.गा.११]
तथा गुरुविनयकरणेन ये नाद्यापि भावितास्तेष्वभावितेषु क्रियमाणपूजादर्शनतः स्थिरत्वमुपजायते। तथा वैनयिकीर्विनयनिमित्ता विनिर्जरा कर्मनिर्जरणं नित्यं सदा सततं भवति, गुरुविनयस्य सदा कर्तव्यत्वात्। तथा मानस्य अहङ्कारस्य भङ्गोऽपि च कृतो ||१३८२-१३८६
गणधारकस्य भवति। एते पूजकानां गुणाः ॥ १३८६ ॥
पूजनादिः सम्प्रति निर्जरार्थमेव गणधारणं व्यवसितस्य पूजामपीच्छतः आचार्यस्य दोषाभावे
६८३ (B) यस्तडागदृष्टान्तस्तं संभावयति।
गाथा
For Private and Personal Use Only