________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशकः
६८२ (B)
www.kobatirth.org
ज्ञानावरणीयादीनां निर्जरार्थम्, मोक्षायैव तत्त्ववेदिनां प्रवृत्तेः, आहारादीनां चैहिकत्वात् । केवलं केचित् स्थविरकल्पिकाः निर्जराहेतोः गणधारणं व्यवसिताः पूजामपि वक्ष्यमाणलक्षणामिच्छन्ति। किमुक्तं भवति ? - यद्यपि नाम तत्त्वतः कर्मनिर्जरणनिमित्तं गण तथापि पूजामेष प्राप्नुयादिति पूजानिमित्तमपि तस्य गणधारणमनुज्ञाप्यते ॥ १३८३ ॥
पूजावाह
गणधारिस्साऽऽहारो, उवकरणं संथवो य उक्कोसो। सक्कारो सीस - पडिच्छएहिं गिहि- अन्नतित्थीहिं ॥ १३८४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गणधारिणः सत उत्कृष्ट आहार, उत्कृष्टमुपकरणम्, उत्कृष्टः संस्तवः सतां गुणानां प्रख्यानम्, तथा शिष्यैः प्रातीच्छकैर्गृहिभिरन्यतीर्थिकैश्चोत्कृष्टः सत्कारः उपध्यादिभिः पूजनं क्रियते । ततः पूजानिमित्तमपि तस्य गणधारणानुज्ञापनम् ॥ १३८४ ॥
संस्तवं व्याख्यानयति
For Private and Personal Use Only
गाथा
| १३८२-१३८६ गणधारकस्य
पूजनादिः
६८२ (B)