________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशकः
६८१ (B)
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तस्य तत्प्रतिषेधः। इदमलब्धिकमधिकृत्योक्तम्। यदि पुनर्द्वितीयभङ्गवर्त्यपि वक्ष्यमाणगुणैरु भवति ततोऽनुज्ञाप्येतापि गणधारी, दोषाभावात् ॥ १३८० ॥
तथा चाऽऽह
आहार-वत्थादिसु द्धिजुत्तं, आदेज्जवक्त्रं च अहीणदेहं । सक्कारभाजं समइमम्मि लोए, पूयंति सेहा य पिहूजणो य ॥ १३८१ ॥
गाथा
आहारवस्त्रादिषु लब्धियुक्तम्, आदेयवाक्यम्, अहीनदेहं परिपूर्णदेहावयवम्, तथा मतिमति लोके सत्कारभाजम् विद्वज्जनपूज्यमित्यर्थः, शैक्षकाः पूजयन्ति । पाठान्तरम् - 'सक्कारहज्जम्मि इमम्मि लोए' तत्रायमर्थः - सत्कारेण ह्रियते- आक्षिप्यते इति सत्कारहार्योऽयं यतो लोकः। तत एवम्भूतेऽस्मिन् लोके आहारवस्त्रादिषु लब्धियुक्तमित्यादिगुणैः शैक्षकाः गणधरणपूजयन्ति पृथग्जनश्च बहुमन्यते । ततः स तादृशो गणधारी कर्तव्यः ॥ १३८१ ॥
१३७७-१३८१
योग्याऽयोग्यादिः
सम्प्रति "पूया - पडिसेह" [गा. १३७६] इति पदे व्याख्यानयन्नाह
For Private and Personal Use Only
६८१ (B)