________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
तृतीय
उद्देशकः
६८१ (A)
܀܀܀܀
www.kobatirth.org
साम्प्रतम् "असति" त्ति पदं व्याख्यानयन् द्वितीयभङ्गगतावाक्षेपपरिहारावाह बियभंगे पडिसेहो, जं पुच्छसि तत्थ कारणं सुणसु । जड़ से होज्ज धरेज्जा, तदभावे किंनु धारेउ? ॥ १३७९ ॥
तंपि यहु दव्वसंगह-परिहीणं परिहरंति सेहादी । संगहरिए य सयलं, गणधारीत्तं कहं होइ ? ॥ १३८० ॥
Acharya Shri Kailassagarsuri Gyanmandir
यत् पृच्छसि त्वम्, यथा- द्वितीयभङ्गे द्वितीयभङ्गवर्तिनो गणधारणे कस्मात्प्रतिषेधः कृत: ? तत्र कारणमिदं शृणु । तदेवाह - यदि से तस्य गणो भवेत् ततो धारयेत्, तदभावे गणाभावे किन्नु धारयेत् ? नैव किञ्चिदिति भावः, ततो गणाभावादेव तस्य गणधारणे प्रतिषेधः ॥१३७९ ॥ अपि च- तं पि य हु इत्यादि, तमपि च भावयेत् । सञ्छन्नमपि हुः निश्चितमलब्धिकतया द्रव्यसङ्ग्रहपरिहीनं वस्त्र - पात्राद्युपकरणसङ्ग्रहरहितं शैक्षादयः शैक्षिकाः, आदिशब्दाद् मुनिवृषभादिपरिग्रहः, परिहरन्ति, वस्त्राद्यभावे तेषां सीदनात् । ततः संग्रहमृते विना सकलं परिपूर्णं गणधारित्वं कथं भवति ? नैव भवतीति भावः । तदभावाच्च
For Private and Personal Use Only
गाथा
१३७७-१३८१
गणधरण
योग्यायोग्यादिः
६८१ (A)