________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
।
व्यवहार
सूत्रम् तृतीय उद्देशकः ६८० (A)
आचार्यस्य यथा न दोषस्तथा तडागं दृष्टान्तत्वेन वक्तव्यम्। तथा यो भावतः परिच्छन्नः शिष्यो लब्धिमांश्च स सन्तं परिवार से तस्य आत्मीयस्याऽऽचार्यस्यानुजानाति। कियन्तम् ? इत्याह- जघन्यतस्त्रीन्प्रव्रजितान् किमुक्तं भवति?- जघन्यतस्त्रयः प्रव्रजिता अवश्यं दातव्याः । इच्छा सेत्ति इच्छा वा से तस्याऽऽचार्यस्य। इयमत्र भावना- आचार्य आत्मनो यथेच्छया त्रीन्वा बहुतरान्वा सर्वान् वा प्रव्रजितान् गृह्णातीति ॥ १३७६ ॥
एष गाथासक्षेपार्थः, व्यासार्थं तु भाष्यकृद् विवक्षुः प्रथमतः "चोयग अप्पभु" त्ति पदं व्याख्यानयति
भण्णइ अविगीयस्स हु, उवगरणादीहि जइ वि संपत्ती। तह वि न सो पजत्तो, करीलकायो व्व वोढव्वे ॥ १३७७ ॥
चोदकेनाऽऽक्षेपे प्रागुक्ते कृते सति प्रतिवचनं भण्यते। अविगीतस्य विशिष्टगीतार्थत्वरहितस्य हु निश्चितं यद्यपि उपकरणादीनामुपकरणशिष्यादीनाम्, गाथायां तृतीया षष्ठ्यर्थे प्राकृतत्वात्, सम्पत्तिः, तथापि न सः पर्याप्तः समर्थः वोढव्ये उपक्षिप्ते गणभारे। किमिव?
܀܀܀܀܀܀܀܀܀܀
गाथा १३७७-१३८१
गणधरणयोग्याऽयोग्यादिः
६८० (A)
For Private and Personal Use Only