________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
महातडागेन समानतामेव भावयतितिमिमगरेहिं न खुब्भति, जहंबुनाहो वियंभमाणेहिं। सो च्चिय महातलागो पफुल्लपउमं व जं अन्नं ॥ १३५२ ॥ यथाम्बुनाथस्तिमि-मकरैर्विजृम्भमाणैर्न क्षुभ्यति, न च स्वस्थानाच्चलति, स एव चाम्बुनाथ इह महातडागम्, तथा विवक्षणात्। अथवा समुद्रात् यदन्यत्प्रफुल्लपा महासरस्तन्महातडागम् ॥१३५२ ॥
तृतीय उद्देशकः ६६९ (A)
गाथा १३५०-१३५५
भावगण
उपनयमाहपरवादीहिं न खुब्भति, संगिण्हंतो गणं च न गिलाइ। होती य सयाभिगमो, सत्ताण सरोव्व पउमड्ढो ॥ १३५३ ॥
तिमि-मकरैरम्बुनाथ इव परवादिभिराक्षिप्यमाणो न क्षुभ्यति। न च गणं संगृह्णन् | यथौचित्येनानुवर्तमानो ग्लायति, यथा वा सर: पद्माढ्यं सत्त्वानां सदाभिगमं भवत्येवं सदा सत्त्वानामभिगमः साधुः प्रभुर्भवति ॥ १३५३ ॥
स्वरूपम्
६६९ (A)
For Private and Personal Use Only