________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
तृतीय
उद्देशकः ६६४ (A)|
सूत्र १
प्रकारान्तरेण सम्बन्धमेवाहतेसिं कारणियाणं, अन्नं देसं गया य जे सीसा । तेसाऽऽगंतुं कोई, गणं धरेज्जाह वा जोग्गो ॥ १३४१ ॥
अथवेति प्रकारान्तरे। तयोः आचार्य-पारिहारिकयोः कारणिकयोः कारणवशतः तथास्थितयोर्ये अन्यं देशं गताः शिष्यास्तेषां मध्यात्कोऽपि भिक्षुः योग्यः समागत्य गणं धारयेत् ततस्तद्विधिप्रतिपादनार्थमधिकृतसूत्रारम्भः ॥१३४१ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या___ भिक्षः, चशब्द आचार्यपदयोग्यानेकगुणसमुच्चयार्थः, इच्छेद् गणं धारयितुम्। भगवांश्च ||११४०-११४५ से तस्य भिक्षोरपरिच्छदः परिच्छदरहितः, परिच्छदश्च द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतः परिच्छदः शिष्यादिपरिवारः। भावतः सूत्रादिकम्। तत्र भगवानाचार्योऽपरिच्छदो द्रव्यत: 01 सामाचारी भावतः पुनर्नियमात् सपरिच्छदः, अन्यथाऽऽचार्यत्वायोगात्, चशब्दात् भिक्षुश्च द्रव्यतो
६६४ (A) ऽपरिच्छदो, भावतः सपरिच्छदः परिगृह्यते। एवं से इत्यादि, एवममुना प्रकारेण से तस्य
गाथा
܀܀܀܀܀܀܀܀܀܀܀
गणधारण
For Private and Personal Use Only