________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् तृतीय उद्देशकः ६६४ (B)
xx
न कल्पते गणं धारयितुम्, एवंशब्दो विशेषद्योतनार्थः, स चामुं विशेषं द्योतयति-आचार्ये | द्रव्यतोऽपरिच्छदे भिक्षोः सपरिच्छदस्य अपरिच्छदस्य वा न कल्पते गणं धारयितुमिति,
भगवांश्च से तस्य द्रव्यतोऽपि परिच्छन्नः परिच्छदोपेतः, चशब्दात्सोऽपि च द्रव्यतोऽपि परिच्छन्नस्तत एवं से तस्य कल्पते गणं धारयितुमिति ॥ अमुमेव सूत्रावयवं भाष्यकारो व्याख्यानयति
थेरे अपलिच्छन्ने, अपरिच्छन्ने सयं पि चगहणा। दव्वाछन्नो थेरो. इअरो पण वा भवे दोहिं ॥१३४२ ॥
स्थविरो नाम आचार्यः, असावेव पूजावचनेन भगवत्शब्देनोच्यते। भगवानिति महात्मनः | गाथा संज्ञा। स स्थविरो अपरिच्छन्नः परिच्छदरहितः। चग्रहणात् चशब्दोपादानाद् भिक्षुरपि ||१३४०-१३४५
गणधारणस्वयमपरिच्छन्नः। तत्र स्थविरो अपरिच्छन्नो द्रव्यतः परिवाररहितो द्रष्टव्यः, भावतः
सामाचारी पुनर्नियमात्सपरिच्छदः । इतरः शिष्यः पुनर्द्वाभ्यामपि वा द्रव्य-भावाभ्यामपरिच्छन्नो भवति। तत्र भावतोऽपरिच्छन्नो नियमादयोग्य एव। इतरस्तु द्रव्यतोऽपरिच्छदो भावतः सपरिच्छदो
६६४ (B) योग्यः। अत्राचार्ये द्रव्यतोऽपरिच्छदे किं सर्वथा भिक्षोर्गणं धारयितुं न कल्पते, उताऽस्तिक
AN
For Private and Personal Use Only