________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
६५४ (B)
www.kobatirth.org
तदेवमुक्तकारणवशाद् यतोऽन्यैः सममभुञ्जानो मासं यावदवतिष्ठते तस्मादेतस्य मासस्य गौणं गुणनिष्पन्नं नाम द्विधा। तद्यथा - पूतिर्निर्वलनमास इति प्रमोदमास इति। पूतिर्दुरभिगन्धस्तस्य निर्वलनं स्फेटनं तत्प्रधानो मासः पूतिनिर्वलनमासः तथा प्रमोदहेतुर्मास : प्रमोदमासः । स च मासो भोजनेन वर्ज्यः परिहर्त्तव्यः, न पुनः शेषैरालापनादिभिः ॥१३२४ ॥ यथा चाभ्यां मासपरिवर्जनमेवं पञ्चरात्रिन्दिवादिपरिवर्जनमपि भावनीयम् । किञ्चान्यदपि कारणमस्ति पञ्चरात्रिन्दिवादिपरिवर्जने ततस्तदभिधित्सुराह
दिज्जइ सुहं च वीसुं, तवसोसियस्स जं बलकरं तु ।
पुणरवि य होइ जोग्गो, अचिरा दुविहस्स वि तवस्स ॥ १३२५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
इह यद्येकत्र भुङ्क्ते ततः सहैव स्वसङ्घाटकेनैष भुङ्क्ते, इत्यनादरबुद्धया यत्तपः शोषितस्य बलवर्धनकरं तस्य दानं न भवति, विष्वक् पृथग्भोजने पुनः तपः शोषितगात्रोऽयमद्यापि न मण्डल्यां भुङ्क्ते, इत्यादरबुद्धिभावतः तपसा शोषितस्य तद्बलवर्धनकरमशनादि तत्सुखेनैव सर्वैरपि साधुभिर्दीयते । तस्यापि दाने को गुण: ? इत्याह
१. '' वा. पु. । एवमग्रेऽपि ॥
For Private and Personal Use Only
सूत्र २८
गाथा १३२४-१३२६ परिहारिकस्य भोजनदाने
विधि:
६५४ (B)