________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ६५४ (A)
सम्प्रति षण्मासवहनानन्तरमुपरि यन्मासो भोजनमधिकृत्य वय॑ते तत्र कारणमाक्षेपपुरः || सरमभिधित्सुराह
मासस्स गोण्ण नामं, परिहरणा पूतिनिव्वलणमासो। तत्तो पमोयमासो, भुंजणवज्जो न सेसेहिं ॥ १३२४ ॥
अथ षण्णां मासानामुपरि मासस्य परिहरणं भोजनमधिकृत्य कस्मात्क्रियते? उच्यतेनिर्वलनार्थं प्रमोदार्थं चेति वाक्यशेषः। तथाहि-कुथितमद्यादिगन्धं मृत्तिकाभाजनं यावदद्यापि निर्वलितं न भवति, तावत् तत्र क्षीरादि न प्रक्षिप्यते, निर्वलिते तु भवति तत्र क्षीरादेः
सूत्र २८ प्रक्षेपः, एवमेषोऽपि दुश्चरितदुरभिगन्धभावितो नियमादेतावता कालेन निर्वलितो भवति,
गाथा
१३२४-१३२६ नान्यथा। तथा जिनप्रवचनप्रवृत्तेः। तथा कश्चित्केनाप्यगम्यगामित्वेनालीकेनाभिशपितो
परिहारिकस्य राजकुले च निवेदितः, स तप्तफालादिकं गृहीत्वा शुद्धः सन् मिथ:सम्भाषणादिभिः प्रमोद भोजनदाने कृत्वा परस्परं स्वजनैः सह भुङ्क्ते, एवमेषोऽपि पारिहारिक आत्मानमपराधेन मलिनं
विधिः प्रायश्चित्तेन विशोध्य मासं यावन्मिथ:सम्भाषणादिभिः प्रमोदमाधाय तैः सहैकत्र भुङ्क्ते।
६५४ (A) १. “प्तगोलादि मो. मु. । प्तमाषादि वा. पु. ॥
For Private and Personal Use Only