________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
.
व्यवहार
सूत्रम् द्वितीय उद्देशक: ६५३ (B)
उद्गमादिकरणं, प्रान्तकृतदोषा अतिचिरावस्थानेन चमढनादिकाः, वर्षाकाले त्वेते दोषाः प्रायो न सम्भवन्ति, सर्वदर्शनिनां वर्षाकालस्य तपोऽनुष्ठानाश्रयतया सम्मतत्वेन कस्यचिदपि विशेषतः प्रीतेदे॒षस्य वाऽसम्भवात्? तथा पूर्वोक्तगुणाश्च कल्पाध्ययनप्रतिपादिता गुणाश्च वर्षाकाले अवाप्यन्ते, ततो वर्षासु परिहारतपो दीयते ॥ १३२२ ॥
अथ के ते पूर्वोक्ता गुणाः? इति विस्मरणशीलान् प्रति तान् भूय उपदर्शयतिवासासु बहू पाणा, बलिओ कालो चिरं च ठायव्वं। सज्झायसंजमतवे, धणियं अप्पा निओत्तव्वो ॥ १३२३ ॥
वर्षाकाले सर्वतः प्रायो बहवः प्राणास्ततो दीर्घा भिक्षाचर्या न भवति तथा स्निग्धतया स कालो बलिको बलियान्, तपः कुर्वतां बलोपष्टम्भकारीति भावार्थः। तथा चिरं च प्रभूतं कालं चैकत्र स्थातव्यम् अत एव स्वाध्याये संयमे तपसि च धणियं अत्यर्थमात्मा नियोक्तव्यो भवति। यत एवं तत एवंरूपप्रभूतगुणोपदर्शनतो वर्षाकाले परिहारतप:प्रतिपत्तिः कार्यते। एतेन 'गिम्हाणं आवन्नो चउसु वि वासासु देंति आयरिया' इत्यत्र [गा.१३२१] यदुक्तं कारणं स्वयमेव वक्ष्यतीति तत्समर्थितम् ॥१३२३॥
गाथा १३२०-१३२३ परिहारतपसि विशेष विधि:
६५३ (B)
For Private and Personal Use Only