________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ६५३ (A)
पणगं पणगं मासे, वज्जेजइ मासो छण्हमासाणं। न य भद्द-पंतदोसा, पुव्वुत्तगुणा य तो वासे ॥ १३२२ ॥
मासे मासे पञ्चकं पञ्चकं परिवर्धमानं तावद् वय॑ते यावत्षण्णां मासानामुपरि मासो वय॑ते, इयमत्र भावना-यो मासिकं परिहारतप आपन्नस्तस्य मासं वहतः पूर्वोक्तविधिः आलापनवर्जनादिको वेदितव्यः। मासे तु व्यूढे उपरि पञ्चरात्रिन्दिवानि यावदालापनादीनि सर्वाणि क्रियन्ते, नवरमेकं भोजनमेकत्र वर्ण्यते। एवं यो द्वौ मासावापन्नस्तस्य दशरात्रिन्दिवानि, यस्त्रीन्मासान् तस्य पञ्चदश, यश्चतुरो मासान् तस्य विंशतिः, यः पञ्च मासान् तस्य भिन्नमासं, यावद् यस्तु षण्मासा-पन्नस्तस्य षट्सु मासेषु व्यूढेषु उपरि मासं यावदेकत्र भोजनमेकं वय॑ते। शेषं त्वालापनादिकं सर्वं सर्वत्र दशरात्रिन्दिवादौ क्रियते। अथ कस्मादृतुबद्धेषु मासेष्वापन्नस्यापि वर्षारात्रेस्तपो दीयते? तत आह-न य भद्दपंत दोसा इत्यादि, ऋतुबद्धे काले यदि परिहारतपो दीयते ततस्तस्मिन् दत्ते सति यदि मासकल्पे परिपूर्णे सति विहरन्ति तर्हि पारिहारिकाणां परितापनादिदोषप्रादुर्भावः। अथ न विहरन्ति ततो भद्रकप्रान्तकृतदोषसम्भवः। भद्रककृता दोषा
गाथा १३२०-१३२३ परिहारतपसि विशेष विधिः
६५३ (A)
For Private and Personal Use Only