________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
६५२ (B)
www.kobatirth.org
तत्र परिहारतपः प्रतिपादनविधिः परिहरणविधिश्च निशीथाध्ययने कल्पे च व्यावर्णितः । यस्तु तत्र नोक्तस्तमिदानीं प्रतिपिपादयिषुराह -
गिम्हाणं आवण्णो, चउसु वि वासासु देंति आयरिया । पुण्णम्मि मासवज्जणे - मप्पुण्णे मासियं लहुयं ॥ १३२१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
इह ग्रीष्मग्रहणेन ऋतुबद्धकालग्रहणं, तेषामृतुबद्धानां मासानां मध्ये एकमासं द्विमासं वा यावत् षण्मासं वा यत् परिहारतपः समापन्नस्तद्वर्षारात्रे चतुर्ष्वपि मासेषु दीयते अत्रार्थे च कारणं स्वयमेव वक्ष्यति । यस्तु षण्मासं परिहारतपः प्रपन्नस्तस्य पूर्णे षण्मासे उपरि मासवर्जनं मासं यावदेकत्र भोजनवर्जनम् । एतेन मासादिके परिपूर्णे पञ्चरात्रिन्दिवादिभोजनवर्जनमुपलक्षितम् । तच्चानन्तरगाथायां स्वयमेव वक्ष्यति । यत्र यावद्भोजनं प्रतिषिद्धं, तत्र तावदपरिपूर्णे भोजनं कुर्वतः प्रायश्चित्तं मासिकं लघु ॥ १३२१ ॥
सम्प्रति पुण्णम्मि मासवज्जणं, इत्येतद्व्याचिख्यासुराह -
९. मासेसु खं. मु. ॥ २. ण अप्पु पु. प्रे. ला. ॥
-
For Private and Personal Use Only
गाथा १३२०-१३२३ परिहारतपसि
विशेष विधिः
६५२ (B)