________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् द्वितीय उद्देशकः ६५२ (A)
पूर्णीभवनानन्तरं पश्चात् सर्वेऽपि परिहारिका अपरिहारिकाश्च एकतः एकत्र स्थाने सम्भुञ्जते सर्वप्रकारैर्भुञ्जते, एष सूत्रसंक्षेपार्थः ।।
अत्र पर आह-ननु बहवः परिहारिका अपरिहारिकाश्च कथमेकत्र सम्भवन्ति? येनाधिकृतं सूत्रमुपपद्यते, तत आह
कारणिगा मेलीणा, बहुगा परिहारिगा भवेजाहि। अपरीहारियभोगो, परिहारि न भुंजइ वहंतो ॥ १३२० ॥
बहवः पारिहारिका एकत्र मिलिता भवेयुः कारणिकाः, कारणवशेनेति भावः, ततो नाधिकृतसूत्रानुपपत्तिः। तत्राऽपरिहारिकाणामेकत्र परस्परं भोगः सम्भोगो भवति। एतावता ते अण्णमण्णं संभुंजंति इति व्याख्यातम् यस्तु परिहारी स परिहारतपो वहन् | परिहारिभिरपरिहारिभिर्वा समं न भुते । एतेन अन्नमन्नं नो संभुंजंति [इति] व्याख्यातम्। पारिहारिका नाम ये परिहारतपोरूपं प्रायश्चित्तं प्रतिपन्नाः। ये पुनः परिहारतप:प्रायश्चित्तं न प्रतिपन्नास्ते अपारिहारिकाः ।। १३२० ।।
गाथा १३२०-१३२३ परिहारतपसि विशेष विधि:
६५२ (A)
For Private and Personal Use Only