________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४.
श्री व्यवहार
सूत्रम्
द्वितीय उद्देशकः ६५० (B)
अथास्य सूत्रस्य कः सम्बन्ध इति सम्बन्धप्रतिपादनार्थमाहअसरिसपक्खिगठविए, परिहारो एस सुत्तसंबंधो१। काऊण व तेगिच्छं, साइजियमागते सुत्तं २॥ १३१७ ॥
असदृशपाक्षिको नाम द्वितीयभङ्गवर्ती चतुर्थभङ्गवर्ती वा, तस्मिन् स्थापित किल, चतुर्गुरुर्नाम प्रायश्चित्तं परिहारो भवति। ततो परिहारप्रस्तावादधिकृतपरिहारिसूत्रस्योपनिक्षेपः । एष पूर्वसूत्रेण सहाधिकृतस्य सूत्रस्य सम्बन्धः१। अत्रैव प्रकारान्तरमाह काऊण वेत्यादि, रोगचिकित्सां कुर्वता मनोज्ञमौषधं मनोज्ञं वा भोजनमनुरागेणास्वादितं तत्र च प्रायश्चित्तं परिहारतपः। ततो रोगचिकित्सां कृत्वा मनोज्ञं च भोजनादिकमास्वाद्य समागतस्य प्रायश्चित्तं परिहारतपो भवतीति विज्ञापनार्थमधिकृतं परिहारविषयं सूत्रम्, एष द्वितीयः सम्बन्धप्रकार:२॥ १३१७॥
सूत्र २७
गाथा १३१६-१३१९ परिहारिका:
परिहारिक भोजनविधिः
अधुना तृतीयमाह
६५० (B)
१. “हारसू वा. पु. मु. ॥
For Private and Personal Use Only