________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
द्वितीय
उद्देशकः
६५१ (A)
www.kobatirth.org
अहवा गणस्स अपत्तियं तु, ठावेंति होइ परिहारो ।
एसोत्ति न एसोत्ति, ठवेज्जऊं भंडणा सगणे३ ॥ १३१८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यो गणधरः स्वाभिप्रेतं गणासम्मतं गुणरहितमपि स्थापयितुकामोऽभिमानवशेन एष योग्यः, न पुनः एषः गणसम्मतो योग्यः, इत्येवं स्वगणे भण्डनं कृत्वा स्थापयति, तस्मिन् गणस्य गच्छस्य अप्रीतिकं यथा भवति एवं स्वाभिप्रेतमाचार्यं स्थापयति तस्मिन् प्रायश्चित्तं भवति परिहारः परिहारतपः । तत एतदर्थप्रतिपादनार्थं दिग्बन्धसूत्रानन्तरं परिहारसूत्रम्। एष तृतीयः सम्बन्धप्रकारः ३ ॥ १३१८॥
सम्प्रति चतुर्थं पञ्चमं च सम्बन्धप्रकारमाह
परिहारो वा भणितो, न तु परिहारम्मि वण्णिया मेरा ४ । ववहारे वा पगते, अह ववहारो भवे तेसिं ॥ १३१९ ॥
वाशब्दः प्रकारान्तरद्योतनार्थः । अधस्तात् परिहार उक्तो न तु तस्मिन् परिहारे वोढव्ये वर्णिता मर्यादा, विधिरित्यर्थः । ततः परिहारविधिप्ररूपणार्थमेष आरम्भः क्रियते ।
For Private and Personal Use Only
सूत्र २७
गाथा १३१६-१३१९ परिहारिकाऽ
परिहारिक
भोजनविधिः
६५१ (A)