________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः ६४९ (A)
नास्ति तत् कथयत, येनाहं ददामीति; तथा तान् शिष्यानात्मनः सम्बन्धयन् उपधिं चान्तरान्तरा ददाति। तथा ये स्वाध्यायान्तिका: स्वाध्यायनिमित्तं समीपस्थायिनो अनुरत्नाधिका गीतार्था इत्यर्थः । तान् तेषां निर्माप्य स्थापितानामाचार्याणां सत्कानात्मनः स मेलापयति संशूषयति 'लीङ् श्लेषणे' इति वचनात्। एवं तेन गीतार्थाः शिष्याश्च विपरिणम्यमाना निर्मापितस्थापितस्य समीपं मुक्त्वा तं स्थापितगणधरमुपसम्पद्यन्ते, स चैवं सचित्तं साधुवर्गलक्षणमात्मीकुर्वन् न लभते, व्यवहारतो न ते तस्याऽऽभवन्तीति भावः ॥ १३१३॥ अथैवमपि ते विपरिणम्यमाना न विपरिणमन्ति, नापि तस्य समीपमायान्ति, ततोऽनेन दृष्टान्तेनं तान् सम्बन्धयति। तमेव दृष्टान्तमाह
गोवालगदिद्वंतं, करेति जइ दोन्नि भाउगा गोवा। रक्खंती गोणीओ, पिहप्पिहा असहिया दो वि ॥ १३१४ ॥ गेलण्णे एगस्स उ, दिण्णा गोणीओ ताहे अन्नस्स।
इय नाऊणं ताहे, सहिया जाया दुवग्गा वि ॥ १३१५ ॥ १. "न सम्बन्धयितुमाह । तमेव - खं ॥
गाथा १३११-१३१५
सभकं विहारायोपदेशः
६४९ (A)
For Private and Personal Use Only