________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् द्वितीय उद्देशकः
.
६४८ (B)
योऽसावाचार्येण सन्दिष्टः यथा-एतं साधु निर्माप्य एतस्मै दिशमनुदिशं वा दद्यात्। स निर्मापितः निर्माप्य चाचार्यपदे स्थापितः । ततः स यदि निर्मापितस्थापितस्तेन सह तिष्ठति विहरति । ततो लष्टं समीचीनम् । अथ नैव अपिशब्द एवकारार्थः, न तिष्ठति तत्र तस्य समीपे तर्हि से तस्य सङ्घाटको दातव्यः । यश्च पूर्वाचार्येण वैयावृत्त्यकरो दत्तः सोऽपि तेन सार्धं विहरति । तत्र ये स्थापितगणधरेणैको द्वौ त्रयो वा सहाया दत्ताः, यश्च पूर्वाचार्यप्रदतो वैयावृत्त्यकरस्तान् पाठयति। ये चाभिनवशैक्षिका उपस्थापिताः प्रव्राजितास्तेऽप्यात्मनः शिष्यत्वेन सम्बन्धनीयाः ॥ १३१२ ॥ एवं सञ्जातपुष्टविहारः सन् अन्यत्र विहारेण गतः, तस्य तथा विहरतः शिष्यान् स स्थापितगणधरो विपरिणमयितुकामो यत्समाचरति तदुपदर्शयति
पेसेइ गंतुं व सयं व पुच्छे, संबंधमाणो उवहिं व देती। सझंतिया सिं च समल्लियावि, सचित्तमेवं न लभे करेंतो ॥ १३१३ ॥
यत्र स निर्मापितस्थापितो विहरति तत्रोदन्तवाहकान् साधून् तच्छिष्याणां प्रेषयति। अथवा स्वयमन्तराऽन्तरा गत्वा तान् पृच्छति, यथा संस्तरथ यूयं सुखेन? यद् भे भवतां
गाथा १३११-१३१५
सभकं
विहारायोपदेशः
६४८ (B)
For Private and Personal Use Only